पूर्वम्: ६।१।५२
अनन्तरम्: ६।१।५४
 
सूत्रम्
चिस्फुरोर्णौ॥ ६।१।५३
काशिका-वृत्तिः
चिस्फुरोर् णौ ६।१।५४

चिञ् स्फुर इत्येतयोः धात्वोः णौ परतः एचः स्थाने विभाष आकारादेशो भवति। चापयति, चययति। स्फारयति, स्फोरयति।
न्यासः
चिस्फुरोर्णौ। , ६।१।५३

"क्रीङ्जीनां णौ" ६।१।४६ इत्यत्र प्रदेश इदं नोक्तम्(); नित्यं मा भूदित्येवमर्थम्()॥
बाल-मनोरमा
चिस्फुरोर्णौ ३९६, ६।१।५३

चिस्फुरोर्णौ। "आदेच उपदेशे" इत्यत आदिति, "विभाषा लीयते"रित्यतो विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति-- आत्त्वं वा स्यादिति। चिञो णिचि आत्त्वे चा इ इति स्थिते --

तत्त्व-बोधिनी
चिस्फुरोर्णौ ३४६, ६।१।५३

चिस्फुरोर्णौ। "आदेच उपदेशे" इत्यत आदित्यनुवर्तते "विभाषा लीयतेः" इत्यतो विभाषाग्रहणं च। तदाह-- आत्वं वा स्यादिति।